पूर्वोत्तरभारते उपनिबद्धाः तान्त्रिकग्रन्थाः
सार
‘तन् प्रसारे’ ‘त्रै रक्षणे’ च इति एताभ्यां धातुभ्यां निष्पनं तन्त्रम् इति पदम्। तनोति त्रायति इति तन्त्रम्। अर्थात् तत्त्वात्मकस्य ज्ञानस्य प्रसारेण अज्ञानतां विनश्य साधकं त्रायतीदं तन्त्रशास्त्रम्। तान्त्रिकग्रन्थाः हिन्दुधर्मे, बौद्धधर्मे, जैनधर्मे च प्राप्यन्ते चेदपि अस्मिन् प्रबन्धे तान्त्रिकग्रन्थेत्यनेन पदेन हिन्दुधार्मिकपरम्परायां रचिताः तान्त्रिकग्रन्थाः एव स्वीक्रियन्ते। हिन्दुधर्मानुयायीषु शैवानां शाक्तानां वैष्णवानां अन्येषाञ्च हिन्दूपधर्मसम्प्रदायसम्बन्धाः तन्त्रिकग्रन्थाः प्राप्यन्ते। तन्त्रमिति पदं हिन्दुधर्मपरम्पपरायाम् आदौ प्रधानं विशेषज्ञानं वा इति अर्थे प्रयुज्यतेस्म। कालक्रमेण, प्रायः विशिष्य आदिशङ्कराचार्यस्य कालात्, पदमिदं शक्त्युपासनाशास्त्ररूपेण सुनिर्दिष्टं जातम्। आगमशास्त्रमित्यपि नामान्तरमस्य तन्त्रशास्त्रस्य। भारतस्य पूर्वप्रदेशे पूर्वोत्तरभूभागे च, विशिष्य उत्कल-वङ्ग-आसामादिषु प्रदेशेषु, शाक्ततन्त्राणां प्रयोगबाहुल्य दृश्यते। अपि च नैकेषु ग्रन्थालयेषु सङ्ग्रहालयेषु वा तान्त्रग्रन्थानां पाण्डुलिपयः पूर्वभारते पूर्वोत्तरभारते च प्राचुर्येण उपलभ्यन्ते। तस्मात् पूर्वोत्तरभारते तन्त्रग्रन्थानाम् उत्पत्तिः रचनाविषये वा विद्वत्सु जिज्ञासा जायते। तज्जिज्ञासायाः प्रशमनार्थम् अस्मिन् शोधपत्रे सामान्यः प्रयासः कृतः। अस्मिन् शोधप्रबन्धे पूर्वेत्तरभारते तन्त्राणां तान्त्रिकग्रन्थानां वा विषये आलोचनाप्रसङ्गे मया पूर्वोत्तरभारतमिति पदेन केवलम् आसामरज्यं, त्रिपुराराज्यम् एव स्वीकृतम्। प्रबन्धेऽस्मिन् आदौ आसामराज्ये उपनिबद्धानां तान्त्रग्रन्थानां पश्चात् त्रिपुराराज्ये तन्त्रग्रन्थां सम्भाव्योत्पत्तिश्च विषये चर्चा कृता वर्तते।