षडङ्गस्वरूपम्
Keywords:
वेदः , शिक्षा, कल्पः, व्याकरणम्, निरूक्तम्, छन्दः, ज्योतिषम्, कालःAbstract
अङ्ग्यते विषयो बुद्ध्यते अमीभिः इति अङ्गम्, वेदस्याङ्गानि वेदाङ्गानि इति व्युत्पत्या वेदाङ्गशब्दः निष्पद्यते। वेदाङ्गानि वेदाभिन्नानि। सम्पूर्णोपि वेदः केनचित् पुरुषेण उपमीयते। तस्य अङ्गसंघातयुतपुरुषस्य सन्ति नैकानि अङ्गानि,एवमेव षडभिरङ्गैरुपेतः अयं वेदपुरुषः। यथा अङ्गानि विविधकार्यैः पुरुषमुपकुर्वन्ति एवम् वेदाङ्गानि वेदार्थावगमनादौ सहयकानि भवन्ति। वेदस्य यथा माहात्म्यं तथा वेदाङ्गानामपि। तानि च षड्वेदाङ्गानि शिक्षा-कल्प-व्याकरण-निरुक्त-छन्द-ज्योतिषञ्चेति। अङ्गं विना यथा अङ्गिनः अस्तित्वं न भवति। तथैव विना अङ्गानाम् अध्ययनम् अङ्गिनः वेदस्य ज्ञानम् तस्मात् अपूर्वप्राप्तिश्च नैव सेत्स्यति। यथा नित्यव्यवहारे अङ्गानां प्रयोगः तथैव नित्यवेदाभ्यासे अङ्गानां उपयोगः वर्तते। अङ्गानां न केवलं वेदस्य अध्ययने फलमपि तु नित्य लौकिकशास्त्राणाम् अध्ययने नित्यव्यवहारे च आचरणाय तेषां व्यापारः भवति। अतः सर्वैः ज्ञानपिपासुभिः षडङ्गानामध्यनं कर्तव्यमेव। अस्मिन् प्रबन्धे तान्येवाङ्गानि एव सविस्तारं पर्यालोचितानि।