पूर्वोत्तरभारतेउपनिबद्धाः तान्त्रिकग्रन्थाः

Authors

  • Anil Kumar Acharya Ambedkar College, Fatikroy, Unakoti, Tipura

Abstract

सर्वैः ज्ञायते यत् पूर्वोत्तरभारतं भारतस्य पूर्वतमप्रदेशान् निर्दिशति। तस्मिन्आहत्य अष्टौ भारतीयराज्यानि सन्ति। तानि यथा – आसामः, अरुणाचलप्रदेशः, मेघालयः, मणिपुरः, मिजोरामः, त्रिपुरा, नागालैण्ड्, सिक्किम्चेति। सिक्किम् राज्यंविहाय शेषं संयुक्ततया "सप्तभगिनी" इति नाम्ना प्रसिद्धम्। सिक्किम्-राज्येन साकम् एतानि अष्टराज्यानिआहत्य“अष्टलक्ष्मी” इत्यपि अभिधीयन्ते। एतेषु सर्वत्र हिन्दुधर्मस्य अस्तित्वं सत्यपि, केवलंआसामे, त्रिपुरायां, सिक्किमे, मणिपुरे, अरुणाचलप्रदेशे चहिन्दुजनानां संख्या अधिका वर्तते।परन्तु हिन्दुधर्मानुयायीनाम् अधिकतमा संख्यापूर्वोत्तरराज्येषु आसामे, त्रिपुरायां, सिक्किम्-राज्ये एव वर्तते। एकादशाधिकद्विसहस्रतमे वर्षे कृता जनगणनानुसारं सिक्किम-राज्ये हिन्दुनां संख्याधिक्यं प्रमाणितमपितत्र जनजीवने बौद्धधर्मस्य संस्कृतेश्च अधिकप्रभावः इति सामान्यधारणा। अतो हि यदा अत्र पूर्वेत्तरभारते तन्त्राणां तान्त्रिकग्रन्थानां वा विषये आलोच्यते, तदा पूर्वोत्तरभारतमिति पदेन केवलम् आसामरज्यं, त्रिपुराराज्यम्एव स्वीकृतं लेखकेन।

Published

2024-11-19

How to Cite

Acharya, A. K. (2024). पूर्वोत्तरभारतेउपनिबद्धाः तान्त्रिकग्रन्थाः. जम्बूद्वीप - the E-Journal of Indic Studies (ISSN: 2583-6331), 3(2). Retrieved from http://journal.ignouonline.ac.in/index.php/jjis/article/view/1886