अनभिहिताधिकारप्रयोजनविमर्शः

Authors

  • Tuhin Mandal Ramakrishna Mission Vivekananda Educational and Research Institute

Abstract

अनभिहिते कर्मादौ द्वितीयादीनां विधानार्थं किञ्च अभिहिते कर्मादौ द्वितीयादीनां निषेधार्थम् अनभिहिते इत्यधिकारः आरब्धः। परन्तु क्रियते कटः इत्यादौ तिङ्प्रत्ययेन किञ्च कृतः कटः इत्यत्र क्तप्रत्ययेन कर्मणः उक्तत्वात् उक्तर्थानाम् अप्रयोगः इति न्यायेनैव द्वितीयानिषेधे सति अनभिहिते इति सूत्रं व्यर्थम् इति शङ्का जायते।एतद्विषये भाष्यकारादीनां मतं स्वीकृत्य सिद्धान्ततः अनभिहिते इति सूत्रम् स्वीकर्तव्यं न वेति विचारः विहितः अस्मिन् प्रबन्धे। किञ्च यदि सूत्रमिदं स्वीकर्तव्यं तर्हि अस्य सूत्रस्य किं प्रयोजनम् इत्यादिविषये अस्मिन् प्रबन्धे यथामति आलोचितम्।

Published

2025-04-22

How to Cite

Tuhin Mandal. (2025). अनभिहिताधिकारप्रयोजनविमर्शः. जम्बूद्वीप - the E-Journal of Indic Studies (ISSN: 2583-6331), 4(1). Retrieved from http://journal.ignouonline.ac.in/index.php/jjis/article/view/2164