अद्वैतवेदान्ते आधुनिकविज्ञाने च मायाः
Abstract
अद्वैतवेदान्ते आधुनिकविज्ञाने च मायाः
शोधसारः
अद्वैतवेदान्ते माया ब्रह्मणः शक्तिरविद्या-अज्ञानं-प्रकृतिरित्यादिशब्दव्यपदेश्या, अनादिः, न सद्रूपा न चासद्रूपा किन्तु सदसत्र्यामनिर्वचनीयलक्षणा, ब्रह्मणो भिन्नत्वाभिन्नत्वाभ्याञ्च अनिरूपणीया सत्त्वरजस्तमोगुणात्मिका, ज्ञानविरोधिनी जगतः परिणाम्युपादानं च। अजामेकां लोहितशुक्लकृष्णाम्, देवात्मशक्तिं स्वगुणैर्निगूढाम् इत्यादिश्रुतिवाक्यानि मायायाः त्रिगुणात्मकत्वं समर्पयन्ति। मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते इत्यादिस्मृतिवाक्यानि ब्रह्मविदाप्नोति परम्, तरति शोकमात्मवित् इत्यादीनि श्रुतिप्रमाणानि च मायायाः ज्ञाननाश्यत्वेन ज्ञानविरोधित्वप्रतिपादकानि। सच्चेन्न बाध्येत असच्चेन्न प्रतीयेत। प्रतीयमानत्वात् ज्ञानेन बाध्यत्वाच्च अनिर्वाच्यत्वमुच्यते इति अनिर्वचनीयाविद्यायां युक्तिः। वेदान्तदर्शने त्रिकालाबाध्यत्वं सत्यत्वं, मायायाः तादृशं सत्त्वं नास्ति, वन्ध्यापुत्रादिवत् अविद्यमानत्वप्रतीतिरपि न, तदेवम् अनिर्वचनीयत्वम्। चित्सुखाचार्यैः मायालक्षणमित्थं कथ्यते-
"अनादिभावरूपं यद्विज्ञानेन विलीयते ।
तदज्ञानमिति प्राज्ञाः लक्षणं संप्रचक्षते" ॥ इति
अद्वैतसिद्धौ मधुसूदनसरस्वतिरेवं प्रतिपादयति - "अनादिभावरूपत्वे सति ज्ञाननिवर्त्या सा" इति ।