न्यायमते शाब्दबोधप्रक्रिया

Authors

  • Prof. Jawahar Lal

Abstract

मानाधीना मेयसिद्धिः मानसिद्धिश्च लक्षणात्, प्रमेयसिद्धिः प्रमाणाद्धिः। प्रमाणं बिना प्रमेयपदार्थस्य सिद्धिः नैव भवितुमर्हति। अत एव प्रमेयपदार्थानां सिद्धये सर्वैरेव दार्शनिकैः प्रमाणानां व्यवस्थापनं स्वस्व सिद्धान्तानुरोधेन कृतमित्यत्र नास्ति संशयः। तत्र परमनास्तिकाभिमते चार्वाक् मते प्रत्यक्षमात्रमेकं प्रमाणमित्यङ्गीकृतम्। बौद्धाः वैशेषिकाश्च प्रमाणद्वयं प्रत्यक्षानुमानञ्चाभ्युपगच्छन्ति। तत्रैव साख्य-योगसिद्धान्तविदाः शब्दस्यागमाख्यस्य प्रमाणान्तरं स्वीकृत्य त्रिविधं प्रमाणं प्रतिपादयन्ति। अस्य शब्दप्रमाणस्यास्तित्वं नैयायिकाः, मीमांसकाः, वेदान्तिनश्च स्वीकुर्वन्ति। चार्वाक्-बौद्ध-वैशेषिकदर्शनेतरेषु दर्शनेषु शब्दप्रमाणस्य प्रमाणान्तरत्वसद्भावात् शब्दप्रमाणस्य प्रमाणत्वं, शाब्दबोधप्रकियाः विषये च किञ्चिद् विचार्यते।

 

 

Published

2022-11-25

How to Cite

Prof. Jawahar Lal. (2022). न्यायमते शाब्दबोधप्रक्रिया . जम्बूद्वीप - the E-Journal of Indic Studies (ISSN: 2583-6331), 1(1). Retrieved from http://journal.ignouonline.ac.in/index.php/jjis/article/view/823