कुमारसम्भव महाकाव्ये कमलपुष्पस्य वैज्ञानिकमहत्त्वम्.
कुमारसम्भवमहाकाव्ये कमलपुष्पस्य वैज्ञानिकमहत्त्वम्
Keywords:
शतपत्रम्, सहस्रपत्रम्, बिसप्रसूनः, उत्पलाक्षी, चञ्चला, पितामहः, शेषनागः, सप्तमातरः, वनसूकराः, भ्रमराः, कुमुदः, गन्धर्वाः, महादेवः, पुण्डरीक, इन्दीवरं, कोकनदः।Abstract
संस्कृतवाङ्मयस्य रचनायां प्रायः प्रकृतीनां सजीवं निर्जीवञ्च चरित्र-चित्रणं सर्वे कवयः विद्वांसश्च कृतवन्तः। महाकविकुलगुरुकालिदासः कुमारसम्भवमहाकाव्ये अनेकेषां पुष्पाणां वर्णनं करोति। सम्पूर्णकुमारसम्भवमहाकाव्ये त्रयस्त्रिंशत्स्थलेषु कमलपुष्पस्य वर्णनं लभ्यते। तत्रादौ उमोत्पत्तिनामके प्रथमसर्गे, ब्रह्मसाक्षात्कारनामके द्वितीयसर्गेऽपि, मदनदाहनामके तृतीयसर्गे, तपःफलोदयनामके पञ्चमसर्गे, उमाप्रदाननामके षष्ठसर्गे, उमापरिणयनामके सप्तमसर्गे, उमासुरतवर्णननामके अष्टमे सर्गे एवञ्च कुमारसैनापत्यनामके द्वादशसर्गे कमलस्य साङ्गोपाङ्गनिरूपणं प्राप्यते। कविः उपर्युक्तस्य कमलपुष्पस्य यद्वा कमलपत्र-नाल-परागादिसन्दर्भस्योल्लेखं काव्ये काव्यकथाप्रसङ्गाद् विदधाति। परन्तु काव्ये आगतं कमलं यद्वा कमलावयवानाम् अस्माकं जीवनस्य कृते किं वैज्ञानिकानि रहस्यानि उपयोगाश्च वर्तन्ते इति विचारः वानस्पतिकस्वरूपसहितं रासायनिकमौचित्यस्योद्घाटनपूर्वकं आयुर्वेदात्मकमुपयोगमुद्घाट्य धार्मिकं प्रयोजनमपि अत्र प्रतिपादितं वर्तते।