भाट्टसिद्धान्तानुसारं धर्मजिज्ञासाधिकरणविमर्शः
Keywords:
मीमांसा, द्वादशलक्षणी, कुमारिलभट्टः, जिज्ञासाधिकरणम्, अध्ययनविधिः।Abstract
वैदिककर्मकाण्डरूपेण वाक्यशास्त्ररूपेण च नैकासां समस्यानां समाधानायेदं मीमांसाशास्त्रं न केवलं दार्शनिकसाहित्यायापि तु व्याकरणधर्मशास्त्रादीनाम् अध्ययनाय अपि अत्यन्तमेवोपादेयं वर्तते। कुमारिलभट्टमतानुसारं - "मीमांसाख्या तु विधेयं बहुविद्यान्तराश्रिता" (सर्वदर्शनसंग्रहः, जैमिनिदर्शनम्) इति। अस्य शास्त्रस्य प्रतिपाद्यविषयत्वेन धर्मजिज्ञासा एव तत्र मुख्यो विषयः। उच्यते लौगाक्षिभास्करेण - "अथ परमकारुणिको भगवान् जैमिनिर्धर्मविवेकाय द्वादशलक्षणीं प्रणिनाय" (अर्थसंग्रहः प्रथमं वाक्यम्) इति। अत्र लक्षणशब्दः अध्यायवाचकः। ननु धर्मानुष्ठानवशादेव अभिमतधर्मसिद्धिः इति वारं वारं प्रतिपाद्यते धर्मशास्त्रेषु। तर्हि धर्मः नाम कः इति जिज्ञासा उदेति। तत्र लौगाक्षिभास्करो वदति - "यागादिरेव धर्मः” अर्थसंग्रहः (पृ.११) इति। तस्य लक्षणं चोक्तं - "वेदप्रतिपाद्यः प्रयोजनवदर्थो धर्मः" अर्थसंग्रहः (पृ.११) इति। वेदप्रतिपाद्यत्वे सति प्रयोजनवत्त्वे च सति अर्थत्वं धर्मस्य लक्षणम्। धर्मः यागः वेदेन प्रतिपाद्यते। "अथातो धर्मजिज्ञासा" द्वादशलक्षणी (१/१/१) इति सूत्रेण आरभ्यते द्वादशलक्षण्यां जिज्ञासाधिकरणम्। अधिकरणस्य पञ्चाङ्गानि तावत् - विषयः, संशयः, पूर्वपक्षः, सिद्धान्तः, सङ्गतिश्चेति। जिज्ञासाधिकरणे अपि आचार्यैः कुमारिलभट्टपादैः पञ्च अङ्गानि विवेचितानि। मीमांसाशास्त्रं न आरम्भणीयमिति पूर्वपक्षः। अध्ययनविधेः अर्थावबोधलक्षणत्वात् अदृष्टफलकत्वानुपपत्तेः। अर्थावबोधार्थम् अध्ययनविधिः इति चेत् किम् अत्यन्तम् अप्राप्तम् अध्ययनं विधीयते किं वा पाक्षिकम् अवघातवत् नियम्यते इति। सिद्धान्ते अध्ययनविधौ नियमविधिः अस्ति एव। अतः विचारशास्त्रम् आरम्भणीयम् इति सिद्धान्तः। मन्त्राणां कश्चन अर्थः भवतीति न मीमांसकाः स्वीकुर्वन्ति, किन्तु एषां विधिषु विनियोगात् भवति सार्थकता। अत्रैव अर्थवादवाक्यानि अपि सन्ति। अर्थवादवाक्यैः साक्षात् विधानं न क्रियते। यथा विविधाः आख्यायिकाः वेदेषु सन्ति तासामाख्यायिकानामुपयोगः साक्षाद्विधाने नास्ति परन्तु परम्परया तु तत्रैव तासामुपयोगो भवति। एवं धर्मविचारशास्त्रमिदं वेदवाक्यार्थविचारे अतीव महत् स्थानं लभते इति शम्।