अर्वाचीनवैयाकरणजयदेवमिश्रविरचितशास्त्रार्थरत्नावल्यां सावर्ण्यचिन्तनम्

लेखक

  • Uttam Ghosh Uttam Ghosh Ramakrishna Mission Vivekananda Educational and Research Institute

सार

अर्वाचीनवैयाकरणजयदेवमिश्रविरचितशास्त्रार्थरत्नावल्यां सावर्ण्यचिन्तनम्

  

     Uttam Ghosh  

उत्तमघोषः(शोधच्छात्रः),

रामकृष्णमिशन्-विवेकानन्द-शैक्षणिकशोधसंस्थानम्,

वेलुडमठः, पश्चिमबङ्गराज्यम्-711202

दूरवाणी- 9733053918

ईमेल- uttamghoshvedvid@gmail.com

समासेन विषयपरिचयः

          चतुःपञ्चाशदधिकाष्टादशशततमे ईशाब्दे मिथिलायां चित्रनाथशचीदेव्योः क्रोडमलङ्कृत्य समजनि अयं जयदेवमिश्रः। काश्यां बालशास्त्रिणः विशुद्धानन्दसरस्वतेः कैलासचन्द्रशिरोमणेश्च व्याकरणं नव्यन्यायं वेदान्तञ्चाधीतवन्तोऽयं विद्वद्वरेण्यः। काशीस्थितदरभङ्गापाठशालायां प्रायेण चत्वारिंशद् वर्षाणि अध्याप्य तदनु पण्डितमदनमोहनमालवीयानुरोधमूररीकृत्य जीवनान्तं यावद् काशीहिन्दुविश्वविद्यालये शतशः छात्रान् अपाठयन् इमे विद्वांसः। तत्कृतिषु परिभाषेन्दुशेखरस्य विजया व्युत्पत्तिवादस्य च जया टीका आभारतं देदीप्यमाना राराजते। पाणिनीयसूत्राणां तथा परिभाषाणामुपरि तदीयग्रन्थः शास्त्रार्थरत्नावली अर्वाचीनशास्त्रार्थपरम्परायाश्चरमनिदर्शनत्वेन मूर्धन्यस्थानमारुह्य स्थितः। न्यायशैल्या अभिनवरीत्या च तदीयं व्याख्यानं प्रौढात् प्रौढतरं रूपमापद्य विद्वद्वरेण्यानां मनांसि मोदयति नितराम्। आधुनिकव्याख्यानमार्गस्य नूतनदिगन्तं व्यमुञ्चयत् तदीयव्याख्यानशैली।  

तुल्यास्यप्रयत्नं सवर्णम् इति सूत्रोपपाद्यसावर्ण्यविषये एतस्य विद्वन्मार्तण्डस्य मयूखराशिः विषयगाम्भीर्यचमत्कारेण कथं वैयाकरणकुलं व्यामोहयन्ति, पूर्वोत्तरपक्षखण्डनविमण्डनादिमाधुर्येण तदीयन्यायशैली कथं लीलायते तदस्मिन् प्रबन्धे साक्षात्कुर्मो वयम्। ग्रन्थान्ते तेन परिष्कारपद्धत्या निष्कृष्टार्थः न्यायशैल्या प्रतिपादितः। प्रतिपदं क्रमशः परिष्कारपूर्वकं वयमस्मिन् शोधप्रबन्धे सावर्ण्यलक्षणं व्याख्यास्यामः।

 

 

प्रकाशित

2023-10-26