वेदोपदिष्टमन्तरिक्षविज्ञानम्
##semicolon##
– वेदः, पृथिवी, द्यौः, अन्तरिक्षम्, दिग्विज्ञानम्, जलविज्ञानम्, विद्युद्विज्ञानम्, अम्बरम्, पुष्करम्, अध्वरम्।सार
अखिलविश्वप्रपञ्चस्य प्राचीनेषु वाङ्मयेषु विशिष्टस्थानं भजते वेदः। भारतीयार्षपरम्परायाम् ऋषीणां योगदानमत्यद्भूतम्। ते च साक्षात्कृतधर्माणः ऋषयः ऋतम्भरया प्रज्ञया अन्तःकरणे सृष्टिविषयकस्य ज्ञानविज्ञानस्य उपलम्भेन महतः ज्ञानराशेः आविष्कारं चक्रुः। तस्यैव ज्ञानस्याभिव्यक्तिः वेदरूपेण बभूव। अस्मिन् प्रबन्धे बयं अन्तरिक्षविज्ञानविषये चर्चयिष्यामः। प्रकृते अस्माकमभिप्राय ऋषिभिः अन्तरिक्षविषयकवैज्ञानिकचिन्तनेन सार्धं विद्यते। वेदेषु अन्तरिक्षविषये ये विचाराः उपस्थापिताः किं ते ऋषिकल्पनात्मिका उत विज्ञानतत्त्वोपेताः ? इति चेत् यद्यपि तत्रत्याः विचाराः बाह्यतः कथात्मिकाः दृश्यन्ते परन्तु अन्ततो गभीराध्ययनेन ज्ञायते ते तत्त्वोपेता एव इति। वेदेषु ब्रह्माण्डस्य निर्मातारः शक्तयः तत्वानि वा देवनाम्ना आख्यतानि। सामान्यतः एतानि तत्त्वानि सर्वेषु लोकेषु व्याप्तानि, परन्तु विशेषरूपेण केषुचित् लोकेष्वेव मुख्यतां दरीदृश्यते। वस्तुतः पृथिवीद्यावान्तरिक्षाख्याः त्रय एव लोका मुख्यतां भजन्ते। अतो भगवान् यास्कः पृथिवी-द्यौ-अन्तरिक्षमित्येतान् त्रीन् लोकानाश्रित्य त्रिषु स्थलेषु देवतानां स्थानं निर्दिदेश। संहितासु विद्यमानेषु मन्त्रेषु यस्य संकेतः प्राप्यते तस्य विश्लेषणं ब्राह्मणग्रन्थेषु प्राप्नुमः। अन्तरिक्षस्थानीय देवानां विवेचनेन अन्तरिक्षविज्ञानविषयकानां नाना शाखानामपि ज्ञानं प्राप्तुम् अर्हामः। अस्यां दिशि वैज्ञानिकाध्ययनस्य आवश्यकता विद्यते। अन्तरिक्षविज्ञानान्तर्भूतस्य दिग्विज्ञानस्य, जलविज्ञानस्य, गतिविज्ञानस्य, विद्युद्विज्ञानस्य, रसविज्ञानस्य, वायुविज्ञानस्य च महत्वं सर्वान् अतिशेते।