‘बौद्धन्यायानुसारं प्रमेयानां वैशिष्ट्यम्’

लेखक

  • Dr. Krishna Kumari

सार

सर्वेषामपि बुद्धोपदेशानां द्विविधं लक्ष्यम्। एकतस्ते समारोपापवादविनिर्मुक्तं शान्तं शिवं वस्तुतत्त्वं निर्दिशन्ति, अपरतश्च मानवानां जीवने जगति च विद्यमानानां विविधानां दुःखफलानां समस्यानां यन्मूलं वस्तुस्वरूपाज्ञानं तन्निराकरणे तेषां प्रयासः। भगवता बुद्धेन सर्वजनहितकारकं यद्धि तत्त्वज्ञानमाविष्कृतम्, तत् सर्वजनसामान्यं विधातुं तदनुयायिषु भिक्षुषु महान् उत्साहः, बलवती च प्रेरणा आसीत्। एषा लक्ष्यप्राप्तिः हेतुविद्यासमाश्रयेणैव सुशका। फलतश्च बौद्धेषु तस्या विद्यायाः समधिकं महत्त्वं परिलक्ष्यते। तेषु एतस्य सर्वस्य हेतुविद्याप्रवणस्य समारम्भजातस्य भगवान् बुद्ध एव प्रेरणास्रोतः। तेन भगवता स्वयमेव विरोधिमन्तव्यानि निराकुर्वता समसामयिकास्तैर्थिकाचार्यास्तर्कबहुलेन वादकौशलेन निगृहीताः, स्वानुयायिनश्च सम्प्रेरिताः। धर्मचक्रप्रवर्तनसूत्रं च समुपदिशता भगवता आर्याष्टाङ्गिकमार्गे इदम्प्रथमतया सम्यग्दृष्टये यत् स्थानं निर्दिष्टम्, तस्यापि इदमेव स्वारस्यम्। सम्यग्दृष्टिर्हि सम्यग्ज्ञानम्। सम्यग्ज्ञानमेव च बौद्धानां प्रमाणलक्षणमिति। तद् द्विविधं प्रत्यक्षमनुमानञ्चेति।

प्रकाशित

2023-10-26