काव्यप्रकाशे पञ्चमतो दशमोल्लासं यावदुद्धृतानां प्राकृतपद्यानां लोकोत्तरवर्णनपरिस्फुरत्ता
सार
अवगतसर्वशास्त्रहृदयोऽनुपमपण्डितो राजानकमम्मटाचार्यः काव्यप्रकाशाख्यं ग्रन्थरत्नं जग्रन्थ इति सर्वविदितोऽयं प्रसङ्गः। ग्रन्थरत्नेऽस्मिन् काव्यशास्त्रीयसिद्धान्तान् विषयांश्च समन्वयात्मिकया सरलया च शैल्या प्रत्याख्याय साहित्यविद्याधुरिणानेन विदुषा किमप्यपूर्वं कविकर्म प्राकाशि। सिद्धान्तानाममीषामुदाहरणत्वेन प्रायः प्राकृतभाषा सुष्टुतया समाश्रिता सरस्वतीसूनुनानेनेति भाषास्ने-होऽत्र संलक्ष्यते। भाषाया अस्या महत्त्वमुररीकृत्य वाक्पतिराजो गउडवहो नामधेये ग्रन्थे इदं बभाषे—
णवमत्थ दंसणं संनिवेससिसिराओ बंधरिद्दीओ।
अविरलमिणमो आभुवनबंधमिह णबर पअअम्मि॥1
इत्थमेव महेश्वरसूरिणाप्यवादि—
गूढत्थदेसिरहिअं सुललिअवण्णेहिं विरइअं रम्मं।
पाइयकब्बं लोए कस्स ण हिअअं सुहावेइ॥2