विश्वभाषा संस्कृतम्
सार
संस्कृतंतावत् सर्वप्राचीनभाषा तथा मूलभाषास्ति। संस्कृतस्य शाब्दिकोऽर्थः पूर्णभाषा। संस्कृतं केवलं भाषैका नास्ति अपितु ज्ञानस्यानुसन्धानक्षेत्रे सामग्रीसंकलनाय एकः सुनियोजितमार्गः। आध्यात्मिकक्षेत्रात् प्रारभ्यः भौतिकक्षेत्रस्य प्रत्येकदिशायाः ज्ञानं लभते। संस्कृतभाषामाध्यमेन भारतवर्षे विज्ञानस्य समुद्भवः वहुप्रागेव संजातः । संस्कृतवाङ्मये विज्ञानस्य वहुविधरूपं प्रदर्शितमस्ति। यथा - गणितविज्ञानं, ज्योतिर्विज्ञानं, वास्तुविज्ञानं, कृषिविज्ञानं, वृष्टिविज्ञानं, राजनीतिविज्ञानं, पर्यावरणविज्ञानं भौतिकविज्ञानञ्च। विविधवैज्ञानिकशाखानामेतेषां वैज्ञानिकविवरणं संस्कृतेनैव बोभवीति। नानाविधक्षेत्रस्य विज्ञानवैभवमत्र विभ्राजते । तदर्थं प्रो. हरिदत्तशर्मामहाभागेन निगदितमस्ति यत् –
''One can be proud of the fact that Sanskrit is not merely a language, but a collection of knowledge , a vast treasure house of various disciplines like linguistics , mathematics , astrology, philosophy , religion , history , art, archeology , architecture and natural sciences like physics , chemistry, biology , botany , medical science , engineering , agriculture , horticulture, cosmology , ecology , aeronautics , navigation etc.''
भाषाणां वर्गीकरणमाधारीकृत्य विश्वस्य सर्वा अपि भाषाः खण्डचतुर्षु विभक्ताः परिदृश्यन्ते । तेषु युरेशियाखण्डं स्वतन्त्रं महत्वपूर्णञ्च । युरेशियाखण्डे विद्यमानानां भाषापरिवाराणां मध्ये भारोपीयभाषा परिवारः स्वप्रशस्त्यनुसारं सर्वत्र संचारितः तथा सुचित्रितः । स्वसत्तायाः महत्ववशात् सर्वत्र विराजिता इयं भाषा। प्रयोगाधिक्यं , भौगोलिकव्यापकत्वं, साहित्यिकोत्कर्षः , भाषावैज्ञानिकोत्कर्षश्चेत्यरूपेण महत्वस्यास्याः नैकविधकारणानि परिलक्ष्यन्ते । अस्याः परिवारस्य नाम आर्यपरिवारः , इण्डोजर्मनिकः भारत-हितीपरिवारश्च इत्यरूपेण विविधनामानिसुविदितानिइतिभाषाविदुषांमतम्।सामान्यतःभारोपीयस्यार्थःभारतस्यतथायूरोपदेशस्य।नामभाषापरिवारोऽयम्एशियामहाद्वीपादारभ्ययुरोपमहाद्वीपंपर्यन्तंविस्तीर्णोऽस्ति।एतस्मादेवभाषापरिवारस्यास्यनामभारोपीयः।भाषाविज्ञानदृष्ट्याकेन्तुम-शतमितिअस्याःभारोपीयभाषायाःवर्गद्वयंनिराकृतमस्ति।शतम-वर्गेतावत् संस्कृतभाषासमायाति।