शिक्षणाधिगमस्य भारतीया परम्परा

Authors

  • Dr. Surendra Mahto Assistant Professor

Abstract

शिक्षणम् अधिगमश्च एका नैसर्गिकीक्रिया अस्ति। एषा क्रिया प्राणिषु भवति। प्राणिनः क्रियायाः एतस्याः सम्पादनं स्वेच्छापूर्त्तये आत्मसंतुष्टये च कुर्वन्ति। प्राणिषुमानवः श्रेष्ठः। अतः मानवेषु एषा क्रिया प्रकृष्टरूपेण भवति। शिक्षणस्य क्रियां,अधिगमस्य क्रियां च मेलयित्वा शिक्षणाधिगमप्रक्रियारूपेण ज्ञायते। शिक्षणाधिगमविषये निखिलेऽपि विश्वे शिक्षाशास्त्रिणः प्राचीनकालादैव मननशीलाः सन्ति। एषा क्रिया स्वभाविकी योजिता च भवति। लौकिकी शास्त्रीया च, इत्युक्ते औपचारिकीअनौपचारिकी चप्रसिद्धा। शिक्षणाधिगमविषये भारतीयपरम्परा समृद्धा वर्तते। भारतीयवाङ्‌मये विषयेऽस्मिन् बहुषु स्थलेषु लिखितं वर्तते। यथा- आचार्यः पूर्वरूपम्। अन्तेवासी उत्तररूपम्। विद्या सन्धिः इति वि‌द्यम्।[1]इत्युक्ते ज्ञानप्राप्तये पक्षत्रयस्य उपस्थितिः अनिवार्या। श्रीमद्भगवद्‌गीतायां ज्ञानं ज्ञेयं परिज्ञाता।[2] अन्यत्रापि आत्मविषयकं चिन्तनं परिस्थितिषु अनुकूलनाय चिन्तनं, इतिरीतिद्वयं प्रचलितं वर्तते। शास्त्रीया (वैदिकी) लौकिकी व्यावहारिकी च। वैदिकी श्रुत्यादिः। लौकिकी पञ्चतन्त्रहितोपदेशादिः। सर्वत्र शिक्षणाधिगमस्य भारतीयस्वरूपं सन्निहितं वर्तते। परंशोधपत्रेऽस्मिन् किञ्चित् प्रमुखसन्दर्भ एव चर्चिष्यते। यथा- व्याकरणसिद्धान्तकौमुद्याः क्त्वा[3]णिच्[4]शिक्षणाधिगमे कथं प्रयोगः।

Published

2024-06-24

How to Cite

Dr. Surendra Mahto. (2024). शिक्षणाधिगमस्य भारतीया परम्परा. जम्बूद्वीप - the E-Journal of Indic Studies (ISSN: 2583-6331), 3(1). Retrieved from http://journal.ignouonline.ac.in/index.php/jjis/article/view/1689