शिक्षणाधिगमस्य भारतीया परम्परा
सार
शिक्षणम् अधिगमश्च एका नैसर्गिकी क्रिया अस्ति। एषा क्रिया प्राणिषु भवति। प्राणिनः क्रियायाः एतस्याः सम्पादनं स्वेच्छापूर्त्तये आत्मसंतुष्टये च कुर्वन्ति। प्राणिषु मानवः श्रेष्ठः। अतः मानवेषु एषा क्रिया प्रकृष्टरूपेण भवति। शिक्षणस्य क्रियां, अधिगमस्य क्रियां च मेलयित्वा शिक्षणाधिगमप्रक्रियारूपेण ज्ञायते। शिक्षणाधिगमविषये निखिलेऽपि विश्वे शिक्षाशास्त्रिणः प्राचीनकालादैव मननशीलाः सन्ति। एषा क्रिया स्वभाविकी योजिता च भवति। लौकिकी शास्त्रीया च, इत्युक्ते औपचारिकी अनौपचारिकी च प्रसिद्धा। शिक्षणाधिगमविषये भारतीयपरम्परा समृद्धा वर्तते। भारतीयवाङ्मये विषयेऽस्मिन् बहुषु स्थलेषु लिखितं वर्तते। यथा- आचार्यः पूर्वरूपम्। अन्तेवासी उत्तररूपम्। विद्या सन्धिः इति विद्यम्।[1] इत्युक्ते ज्ञानप्राप्तये पक्षत्रयस्य उपस्थितिः अनिवार्या। श्रीमद्भगवद्गीतायां ज्ञानं ज्ञेयं परिज्ञाता।[2] अन्यत्रापि आत्मविषयकं चिन्तनं परिस्थितिषु अनुकूलनाय चिन्तनं, इति रीतिद्वयं प्रचलितं वर्तते। शास्त्रीया (वैदिकी) लौकिकी व्यावहारिकी च। वैदिकी श्रुत्यादिः। लौकिकी पञ्चतन्त्रहितोपदेशादिः। सर्वत्र शिक्षणाधिगमस्य भारतीयस्वरूपं सन्निहितं वर्तते। परं शोधपत्रेऽस्मिन् किञ्चित् प्रमुखसन्दर्भ एव चर्चिष्यते। यथा- व्याकरणसिद्धान्तकौमुद्याः क्त्वा[3] णिच्[4] शिक्षणाधिगमे कथं प्रयोगः।
[1] तै.उ. (शिक्षावल्ली)
[2] श्रीमद्भगवद्गीता 18.18
[3] समानकर्तृकयोः पूर्वकालेः 3.4.21
[4] णिचश्च 1.3.74